वांछित मन्त्र चुनें

य॒ज्ञैरिषू॑: सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ॥

अंग्रेज़ी लिप्यंतरण

yajñair iṣūḥ saṁnamamāno agne vācā śalyām̐ aśanibhir dihānaḥ | tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām ||

पद पाठ

य॒ज्ञैः । इषूः॑ । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभिः । दि॒हा॒नः । ताभिः॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒चः । बा॒हून् । प्रति॑ । भ॒ङ्धि॒ । ए॒षा॒म् ॥ १०.८७.४

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:4 | अष्टक:8» अध्याय:4» वर्ग:5» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणी सेनानायक ! तू (यज्ञैः) किन्हीं मिलने योग्य द्रव्यों के साथ (इषूः सन्नममानः) वाणों को जलाता हुआ-तपाता हुआ तथा (वाचा-अशनिभिः) वज्र से-स्फोटक पदार्थ से तथा विद्युत् की धाराओं से (शल्यान् दिहानः) बाण के लोहफलकों को दिग्ध-उपचित-लपेटता हुआ-लेपता हुआ (ताभिः) उन बाणों से (यातुधानान्) पीड़ा देनेवाले शत्रुओं को (हृदये विध्य) हृदय में बींध-ताड़ित कर (येषां बाहून्) इनके शस्त्रयुक्त बाहुओं-भुजाओं को (प्रतीचः) प्रतिकूल करके उलटकर (प्रति भङ्धि) तोड़-फोड़ दे ॥४॥
भावार्थभाषाः - सेनानायक को चाहिये कि वह  किन्हीं स्फोटक पदार्थों और विद्युत् की धाराओं से शस्त्रों को संयुक्त करे, जिनसे शत्रु शस्त्र सहित उल्टे ताड़ित हो सकें ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणीः सेनानायक ! त्वं (यज्ञैः-इषूः-सन्नममानः) कैश्चित्सङ्गमनीयद्रव्यैर्वाणान् ज्वालयन् तापयन् तथा (वाचा-अशनिभिः शल्यान्-दिहानः) वज्रेण स्फोटकपदार्थेन “वज्र एव वाक्” [ऐ० २।२१] विद्युद्धाराभिश्च लोहफलकानि दिहन्-उपचयन् “दिह उपचये” [तुदा०] वेष्टयन् (ताभिः-यातुधानान् हृदये विध्य) ताभिरिषुभिर्यातनाधारकान् शत्रून् हृदये ताडय (एषां बाहून्-प्रतीचः प्रति भङ्धि) एषां बाहून् शस्त्रबाहून् प्रतिकूलान् कृत्वा नाशय ॥४॥